NCERT Class 6 Sanskrit Deepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम्

ncert books

NCERT Class 6 Sanskrit Deepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम्

NCERT Solutions for Class 6 Sanskrit Deepakam Chapter 14 माधवस्य प्रियम् अङ्गम्

वयम् अभ्यासं कुर्मः

 

१. चित्रं दृष्ट्वा अङ्गस्य नाम लिखन्तु ।

उत्तरम्:

२. कोष्ठकात् समुचितं क्रियापदं चित्वा उदाहरणानुसारम् अङ्गस्य कार्यं लिखन्तु ।

 

यथा – नयनं – पश्यति

(क) मुखम् – ………. (चलति, हसति वदति)
उत्तरम्:
मुखम् – वदति

 

(ख) पादः – ……….. (लिखति, चलति पश्यति)
उत्तरम्:
पादः – चलति

(ग) कर्णः – ……….. (हसति वदति, शृणोति)
उत्तरम्:
कर्णः – शृणोति

(घ) नासिका – ……….. (आघ्राणं करोति, नृत्यति धावति)
उत्तरम्:
नासिका – आघ्राणं करोति

(ङ) जिह्वा – ………… (धावनं करोति, आस्वादनं करोति, पश्यति)
उत्तरम्:
जिह्वा – आस्वादनं करोति

 

३. कोष्ठकात् समुचितां संख्यां चित्वा रिक्तस्थानं पूरयन्तु।

(क) मम …………. शिरः अस्ति । (एकम् अनेकं चत्वारि )
उत्तरम्:
मम एकम् शिरः अस्ति ।

(ख) मम …….. पादौ स्तः । (त्रयः, द्वौ, पञ्च)
उत्तरम्:
मम द्वौ पादौ स्तः ।

 

(ग) मम ……. केशाः सन्ति । (दश, अष्ट, बहव:)
उत्तरम्:
मम बहवः केशाः सन्ति ।

(घ) मम ……….. दन्ताः सन्ति । (चत्वारः, अष्टाविंशतिः, द्वात्रिंशत् )
उत्तरम्:
मम अष्टाविंशतिः दन्ताः सन्ति ।

(ङ) मम हस्तयोः …….. अङ्गुल्यः सन्ति । (अष्ट, दश, पञ्चदश )
उत्तरम्:
मम हस्तयो: दश अङ्गुल्यः सन्ति ।

४. कोष्ठकात् समुचितं क्रियापदं चित्वा उदाहरणानुसारं शरीराङ्गस्य नाम लिखन्तु ।

यथा- नयनम्। पश्यति

(क) शृणोति – …………। (गुल्फ : चिबुकम् कर्ण:)
उत्तरम्:
शृणोति – कर्णः ।

(ख) धावति – ………..। (पादद्वयम्, हस्तद्वयम्, नयनद्वयम् )
उत्तरम्:
धावति – पादद्वयम् ।

(ग) नमति – ………. । (शिर:, कूर्पर:, जङ्घा)
उत्तरम्:
नमति – शिरः ।

(घ) सूचयति – ………. । (अङ्गुली, नख:, चरण:)
उत्तरम्:
सूचयति – अंगुली ।

(ङ) लिखति – ………… । (हस्त:, मणिबन्ध:, कटि:)
उत्तरम्:
लिखति – हस्तः ।

5. पट्टिकातः शब्दान् चित्वा यथायोग्यं गणेषु लिखन्तु ।

नासिका मणिबन्धः चिबुकम् कूर्पर: हस्त: मणिबन्धः कपोल:
भुजः ललाटम् स्कन्धः जङ्घा नयनम् जानु ऊरु:
उत्तरम्:

६. कोष्ठकात् समुचितं पदं चिन्वा वाक्यानि ‘रचयन्तु।

(क) अहं ………… गायनं करोमि ।
(पादेन, नासिकया, मुखेन)
उत्तरम्:
अहं मुखेन गायनं करोमि ।

(ख) अहं ……….. धावनं करोमि ।
(पादाभ्यां, ललाटेन, कूर्परेण)
उत्तरम्:
अहं पादाभ्यां धावनं करोमि ।

 

(ग) अहं ……….. आघ्राणं करोमि ।
(नखै:, नासिकया, चरणेन)
उत्तरम्:
अहं नासिकया आघ्राणं करोमि ।

(घ) अहं ……….. श्रवणं करोमि ।
(कर्णाभ्याम्, नासिकया, अङ्गुष्ठैः)
उत्तरम्:
अहं कर्णाभ्याम् श्रवणं करोमि ।

(ङ) अहं ………. भोजनं करोमि ।
(मुखेन पादेन, नासिकया)
उत्तरम्:
अहं मुखेन भोजनं करोमि ।

७. पट्टिकातः समुचितं शरीराङ्गं चित्वा भगिनी कुत्र किं धरति इति सूचयन्तु।

कण्ठे ललाटे नयनयोः ओष्ठयोः पादयोः
कर्णयोः हस्तयोः वामहस्ते अङ्गुल्यां नेत्रयोः

भगिनी ……….. पादुकाद्वयं धरति ।
उत्तरम्:
भगिनी पादयोः पादुकाद्वयं धरति ।

भगिनी ………… कङ्कणानि धरति।
उत्तरम्:
भगिनी हस्तयोः कङ्कणानि धरति ।

भगिनी …………. मुद्रिका धरति ।
उत्तरम्:
भगिनी अङगुल्यां मुद्रिकां धरति ।

भगिनी ……….. घटीयन्त्रं धरति ।
उत्तरम्:
भगिनी वामहस्ते घटीयन्त्रं धरति ।

भगिनी ……….. मालां धरति ।
उत्तरम्:
भगिनी कण्ठे मालां धरति ।

भगिनी ………… कुण्डलद्वयं धरति ।
उत्तरम्:
भगिनी कर्णयोः कुण्डलद्वयं धरति ।

भगिनी ……….. उपनेत्रं धरति ।
उत्तरम्:
भगिनी नेत्रयोः उपनेत्रं धरति ।

भगिनी ………. कुङ्कुमं धरति ।
उत्तरम्:
भगिनी ललाटे कुङ्कुमं धरति ।

भगिनी ……… ओष्ठरागं धरति ।
उत्तरम्:
भगिनी ओष्ठयोः ओष्ठरागं धरति ।

भगिनी ……….. कज्जलं धरति ।
उत्तरम्:
भगिनी नयनयोः कज्जलं धरति ।

८. वाक्यं शुद्धम् अशुद्धं वा इति सूचयन्तु

(क) अहं कर्णाभ्यां भोजनं करोमि । (शुद्ध / अशुद्धम् )
उत्तरम्:
अशुद्धम्

(ख) अहं नासिकाद्वारा श्वासं स्वीकरोमि । (शुद्धम् / अशुद्धम्)
उत्तरम्:
शुद्धम्

(ग) अहम् अङ्गुष्ठैः गणनां करोमि । (शुद्धम् / अशुद्धम्)
उत्तरम्:
शुद्धम्

(घ) अहं नयनाभ्यां श्रवणं करोमि । (शुद्धम् / अशुद्धम्)
उत्तरम्:
अशुद्धम्

(ङ) अहं हस्तेन कार्यं करोमि । (शुद्धम् / अशुद्धम्)
उत्तरम्:
शुद्धम्

योग्यताविस्तरः

मधुराष्टकम्

अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥१॥
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥२॥
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ||३||
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम्।
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ||४||
करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् ।
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥५॥
गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ||६||
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं सृष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥७॥
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं मधुराधिपतेखिलं मधुरम् ||८||
श्रीवल्लभाचार्य कृतं मधुराष्टकम्

गतिविधि-कार्यम्

कक्षायां सर्वे छात्राः शिक्षकस्य मार्गदर्शनेन अस्य पाठस्य नाट्याभिनयं कुर्वन्तु ।

परियोजनाकार्यम्|
योग्यताविस्तरभागे विद्यमानं चित्रं स्फोरकपत्रे रचयित्वा अङ्गानां नामानि लिखन्तु ।
उत्तरम्:
छात्राः स्वमेव कुर्वन्तु ।

पठित-अवबोधनम्

I. अवबोधन कार्यम्

१. निम्नलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत-

माधव: विचारयति बोधयति च-
‘मम शरीरस्य सर्वाणि अङ्गानि मम कृते उपकारकाणि सन्ति । अहम् नेत्राभ्याम् पश्यामि, कर्णाभ्याम् शृणोमि मुखेन भाषणं करोमि भोजनं करोमि च, उदरेण पाचनात् शक्तिं प्राप्नोमि पादाभ्याम् च चलामि। अतः भवन्तः सर्वेऽपि श्रेष्ठाः ।

प्रश्ना:-

I. एकपदेन उत्तरत-

(i) माधव: काभ्याम् चलति ?
उत्तरम्:
पादाभ्याम्

(ii) माधव: काभ्याम् पश्यति?
उत्तरम्:
नेत्राभ्याम्

 

(iii) सः उदरेण पाचनात् किं प्राप्नोति ?
उत्तरम्:
शक्तिं

(iv) सर्वाणि अङ्गानि कीदृशनि सन्ति?
उत्तरम्:
उपकारकाणि

II. पूर्णवाक्येन उत्तरत-

(i) माधव: मुखेन किम् – किम् करोति ?
उत्तरम्:
माधव मुखेन भाषणं करोति भोजनं च करोति ।

III. निर्देशानुसारं उत्तरत-

(i) ‘चलामि’ इत्यंत्र कः पुरुषः ?
(क) प्रथम पुरुष:
(ख) मध्यम पुरुष:
(ग) उत्तम पुरुष:
उत्तरम्:
(ग) उत्तम पुरुष:

(ii) ‘अहम्’ नेत्राभ्याम् पश्यामि ।’ अस्मिन् वाक्ये क्रियापदं किम् ?
(क) पश्यामि
(ख) अहम्
(ग) नेत्राभ्याम्
(घ) माधवः
उत्तरम्:
(क) पश्यामि

२. वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(i) माधवः स्वपने स्वशरीरस्य अङ्गानि दृष्टवान्।
उत्तरम्:
माधवः स्वपने कस्य अङ्गानि दृष्टवान् ?

(ii) कर्णः स्मितं कृत्वा कथयति ।
उत्तरम्:
कः स्मितं कृत्वा कथयति ?

(iii) भवन्तः सबलाः भवन्ति ।
उत्तरम्:
के सबलाः भवन्ति ?

(iv) माधव: विचारयति ।
उत्तरम्:
कः विचारयति ?

(v) सः नेत्राभ्याम् पश्यति ।
उत्तरम्:
स: काभ्याम् पश्यति?

३. कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानं पूरयत-

द्वौ पादाभ्याम्, नेत्रेण, मुखेन, एका, नेत्राभ्याम्

(i) मोहन ……………. काणः अस्ति ।
उत्तरम्:
नेत्रेण

(ii) नायक: ……… अन्धः अस्ति ।
उत्तरम्:
नेत्राभ्याम्

(iii) नरस्य ………. कर्णौ स्तः ।
उत्तरम्:
द्वौ

(iv) मुखे …….. नासिका भवति ।
उत्तरम्:
एका

(v) नरः …… जलं पिबति ।
उत्तरम्:
मुखेन

(vi) अहम् …….. चलामि ।
उत्तरम्:
पादाभ्याम्

 

४. पर्यायपदान् समुचितं मेलयत-

उत्तरम्:
NCERT Class 6 Sanskrit Deepakam Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम् 1.9